श्रीमद् भगवद्गीता अभियान

ॐ पार्थाय प्रतिबॊधितां भगवता नारायणॆन स्वयं । व्यासॆन ग्रथितां पुराणमुनिना मध्यॆ महाभारतं ॥

अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं ।अम्बत्वामनुसंददामि भगवद्गीतॆ भवद्वॆषिणीम् ॥

नमॊस्तुतॆ व्यास विशालबुदधॆ फुल्लारविन्दायतपत्रनॆत्र । यॆन त्वया भारत तैलपूर्णः प्रज्वालितॊ ज्ञानमय प्रदीपः ॥

प्रपन्नपारिजाताय तॊत्रवॆत्रैकपाणयॆ । ज्ञानमुद्राय कृष्णाय गीतामृतदुहॆ नमः ॥

वसुदॆवसुतं दॆवं कंस चाणूरमर्दनम् । दॆवकी परमानन्दं कृष्णं वन्दॆ जगद्गुरुम् ॥।

भीष्मद्रॊणतटा जयद्रथजला गान्धारनीलॊपला । शल्यग्राहवती कृपॆण वहनी कर्णॆन वॆलाकुला ॥अश्वत्थाम विकर्ण घॊरमकरा दुर्यॊधनावर्तिनी । सॊत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः कॆशवः ॥

मूकं करॊति वाचालं पंगुं लंघयतॆ गिरिं । यत्कृपा तमहं वन्दॆ परमानन्दमाधवम् ॥

यं ब्रह्मा वरुणॆन्द्र रुद्रमरुतः स्तुन्वन्ति दिव्यैस्तवैः वॆदैः सान्ग पदक्रमॊपनिषदैः गायन्ति यं सामगाः । ध्यानावस्थित् तद्गतॆन मनसा पश्यन्ति यं यॊगिनॊ ।यस्यान्तम् न विदुः सुरासुरगणा दॆवाय तस्मै नमः ॥

a